|| सुब्रह्मण्य ॐ ||पुरहरनन्दन रिपुकुलभञ्जन दिनकरकोटिरूप परिहृतलोकताप शिखीन्द्रवाहन महेन्द्रपालन विधृतसकलभुवनमूल विधुतनिखिलदनुजतूल तापससमाराधित पापजविकाराजित तारुण्यविजितमाराकार कारुण्यसलिलपूराधार मयूरवरवाहन महेन्द्रगिरिकेतन भक्तिपरगम्य शक्तिकररम्य परिपालितनाक पुरशासनपाक निखिललोकनायक गिरिविदारिसायक महादेवभागधेय महापुण्यनामधेय विनतशोकवारण विविधलोककारण सुरवैरिकाल पुरवैरिबाल भवबन्धनविमोचन दलदम्बुजविलोचन करुणामृतरससागर तरुणामृतकरशेखर वल्लीमनोहारिवेष मल्लीमालभरीकेश परिपालितविबुधलोक परिकालितविनतशोक मुखविजितचन्द्र निखिलगुणमन्दिर भानुकोटिसदृशरूप भानुकोपभयदचाप पितृमनोहारिमन्दहास रिपुशिरोदारिचन्द्रहास श्रुतिकलितमणिकुण्डल रुचिविजितरविमण्डल भुजवरविजितसाल भजनपरमनुजपाल नववीरसंसेवित रणधीरसम्भावित मनोहारिशील मेहेन्द्रारिकील कुसुमविशदहास कुलशिखरिनिवास विजितकरणमुनिसेवित विगतमरणजनिभाषित स्कन्दपुरनिवास नन्दनकृतविलास कमलासनविनत चतुरागमविनुत कलिमलविहीनकृतसेवन सरसिजनिकाशशुभलोचन अहार्यवरधीर अनार्यवरदूर विदलितरोगजाल विरचितभोगमूल भोगीन्द्रभाषित योगीन्द्रभावित पाकशासनपरिपूजित नाकवासिनिकरसेवित विधृतविद्याधर विद्रुमहृद्याधर दलितदनुजवेतण्ड विबुधवरकोदण्ड परिपालितभूसुर मणिभूषणभासुर अतिरम्यस्वभाव श्रुतिगम्यप्रभाव लीलाविशेषतोषितशङ्कर हेलाविशेषकलितसङ्कर सुमसमरधन शशधरवदन सुब्रह्मण्य विजयीभव विजयीभव ||
|| नमो नमः शङ्करपादुकाभ्याम् ||श्रीमात्रे नमःश्रीप्रासाद परमेश्वराय नमः
श्रीस्वच्छन्दानन्दनाथात्मक नृसिंह परब्रह्मणे नमः गुशब्दस्त्वन्धकारः स्यात् रूकारस्तन्निरोधकः | अन्धकारनिरोधत्वात् गुरुरित्यभिधीयते || गुकारो ज्ञानसंपत्तिः रेफस्तस्य प्रकाशकः | उकारश्शिवतादात्म्यं गुरुरित्यभिधीयते || आचिनोति हि शास्त्राणि ह्याचारे स्थापयत्यपि | स्वयं आचरते यस्मात् तस्मादाचार्य उच्यते || आत्मभावप्रदानात्तु रागद्वेषादिवर्जनात् | ध्यानैकनिष्ठचित्तत्वात् आराध्य इति कथ्यते || देवतारूपधारित्वात् शिष्यानुग्रहकारणात् | करुणामयमूर्तित्वात् देशिकः कथितः प्रिये || स्वान्तश्शक्तिसमुन्मीलत्परतत्त्वार्थचिन्तनात् | मिथ्याज्ञानविहीनत्वात् स्वामीति कथितः प्रिये || मनोदोषादिदूरत्वात् हेतुवादादिवर्जनात् | श्वादिप्राणिषु सादृश्यात् रम्यत्वाच्च महेश्वरः || श्रीमोक्षज्ञानदातृत्वात् नादब्रह्मावबोधनात् | स्थगिताज्ञानचिह्नत्वात् श्रीनाथः कथितः प्रिये || देशकालाविरोधेन वर्तमानात् कुलागमे | वशीकृतजगज्जीवाद्देव इत्यभिधीयते || भवपाशप्रशमनात् टङ्कारेन्दुकशेखरात् | रक्षणात् कमनीयत्वात् भट्टारक इतीरितः || प्रगुप्तागमवेदान्तरहस्यार्थविमर्शनात् | भुक्तिमुक्तिप्रदानाच्च प्रभुरित्यभिधीयते || योनिमुद्रानुसन्धानात् प्रस्फुरन्मन्त्रवैभवात् | गीर्वाणगणपूज्यत्वात् योगीति कथितः प्रिये || सङ्गदुःखपरित्यागात् यत्रकुत्राश्रमाश्रयात् | मिथ आत्मनिबन्धत्वात् संयमीत्यभिधीयते || अक्षरत्वात् वरेण्यत्वात् धूतसम्सारबन्धनात् | तत्त्वमस्यार्थसिद्धत्वात् अवधूतोऽभिधीयते || यथा घटश्च कलशः कुम्भशैकार्थवाचकः | तथा देवश्च मन्त्रश्च गुरुश्चैकार्थ उच्यते || || सर्वमूलगुरुरूपिण्यै श्रीपराम्बायै नमः || |
|